अष्टदिवसीयायाः संस्कृतसम्भाषणकार्यशालायाः शुभारम्भः — संस्कृतभाषां व्यवहारभाषारूपेण प्रतिष्ठापयितुं दृढः सङ्कल्पः
श्रीकुन्दकुन्दकहानशाश्वतपरमार्थिकट्रस्टस्य तथा सम्यग्ज्ञानप्रचार-प्रसारट्रस्टस्य संयुक्ततत्त्वावधानेन संस्कारतीर्थशाश्वतधाम्नि आयोजितायाः अष्टदिवसीयायाः संस्कृतसम्भाषणकार्यशालायाः उद्घाटनसमारोहः अद्य अत्यन्तं गरिमापूर्णवातावरणे सम्पन्नः। अस्याः कार्यशालायाः प्रमुखोद्देश्योऽस्ति संस्कृतभाषायाः व्यवहारजीवने प्रसारणम्, संस्कृतसम्भाषणपरम्परायाः सुदृढीकरणम्, भारतीयसंस्कृतेः संस्काराणां च संरक्षण-संवर्धनार्थं संस्कृतभाषायाः व्यापकप्रचारप्रसारस्य संवर्धनम्। एषा कार्यशाला २ अगस्ततः ९ अगस्तपर्यन्तम् विविधैः शैक्षिकैः, भाषिकैः, सांस्कृतिकैश्च कार्यक्रमैः सह सञ्चालिता भविष्यति।
कार्यक्रमस्य मुख्यातिथित्वेन राष्ट्रव्यापी संस्कृतप्रचारकः, श्रीकमलनयनप्राच्यसंस्थानस्य संस्थापकाध्यक्षः आचार्यवासुदेवचमोलीमहाभागः विराजमानः आसीत्। कार्यक्रमस्य अध्यक्षतां राजकीयोच्चमाध्यमिकविद्यालयस्य आसना-स्थानस्य वरिष्ठाध्यापकः तथा श्रीकुन्दकुन्दकहानशाश्वतपरमार्थिकट्रस्टस्य मन्त्री डॉ. महावीरशास्त्रीमहाभागः अकरोत्।
विशिष्टातिथिरूपेण राजकीयाध्यापकः तथा भारतसंस्कृतपरिषदः चित्तौडप्रान्तस्य प्रान्तायामप्रमुखः श्रीअभिषेकशर्ममहाभागः, संस्कारतीर्थशाश्वतधाम्नः वरिष्ठाध्यापकः पण्डितसुरेशशास्त्रीमहाभागः, पण्डितयोगेशचन्द्रशास्त्रीमहाभागः, श्रीकुन्दकुन्दकहानशाश्वतपरमार्थिकट्रस्टस्य संयोजकः तथा यूनिवर्सल पब्लिक स्कूल, कानोड इत्यस्य निर्देशकः डॉ. अङ्कितशास्त्रीमहाभागः, जनार्दनरायनागरराजस्थानविद्यापीठस्य (डीम्ड्-टु-बी-विश्वविद्यालयस्य) संस्कृतविभागस्य सहायकाचार्यः डॉ. निलेशशास्त्रीमहाभागः, पण्डिततन्मयशास्त्रीमहाभागः, पण्डितसम्मेदशास्त्रीमहाभागः, तथा संस्कारतीर्थशाश्वतधाम्नः भूतपूर्वे छात्रे विदुष्यौ मुस्कानशास्त्री तथा अनन्याशास्त्री उपस्थितौ आस्ताम्।
कार्यक्रमस्य शुभारम्भः श्रेणीजैनमहोदयया प्रस्तुतेन संस्कृतमङ्गलाचरणेन अभवत्, येन सम्पूर्णः परिसरः संस्कृतमयः आध्यात्मिकभावपूर्णश्च अभवत्। तदनन्तरं पण्डितसुरेशशास्त्रीमहाभागेन स्वागतोद्बोधनपूर्वकं सर्वेषामतिथीनां हार्दिकस्वागतमभिनन्दनं च कृतम्। आगतानामतिथीनां परिचयं डॉ. निलेशशास्त्रीमहाभागः प्रभावपूर्णया शैलीया प्रस्तुतवान्। डॉ. अङ्कितशास्त्रीमहाभागः संस्कारतीर्थशाश्वतधाम्नः परिचयं दत्त्वा संस्थायाः उद्देश्यान्, सेवाकार्यानि, संस्कारप्रधानगतिविधीश्च विस्तारतः निरूपितवान्। पण्डितसम्मेदशास्त्रीमहाभागः अष्टदिवसीयायाः संस्कृतसम्भाषणकार्यशालायाः अवधारणां रूपरेखां च सम्यग् विवृण्वन् उक्तवान् यत् अयं शिविरः संस्कृतभाषां केवलम् अध्ययनभाषारूपेण न स्थापयति, अपितु व्यवहारभाषारूपेण प्रतिष्ठापयितुमेकः महत्त्वपूर्णः प्रयासः अस्ति।
मुख्यातिथिः आचार्यवासुदेवचमोलीमहाभागः स्वस्य प्रेरणाप्रदुद्बोधने उक्तवान् यत् संस्कृतभाषा केवलं भाषा नास्ति, अपितु भारतीयज्ञानपरम्परायाः आत्मस्वरूपमेव अस्ति। यदा संस्कृतभाषा पुनः जनसामान्यस्य व्यवहारभाषा भविष्यति, तदा भारतीयसंस्कृतिः, जीवनमूल्यानि, नैतिकादर्शाश्च पुनरपि सुदृढतां गमिष्यन्ति। तेन शिविरे सहभागिनः सर्वे विद्यार्थिनः आहूताः यत् अष्टसु एतेषु दिवसेषु ते स्वस्य दैनन्दिनव्यवहारे, परस्परसंवादे, वार्तालापे च यथाशक्ति संस्कृतभाषायाः एव प्रयोगं कुर्वन्तु। केवलं पुस्तकाध्ययनेन भाषा न सिद्ध्यति, अपितु नित्यव्यवहारेणैव भाषाज्ञानस्य वास्तविकः विकासः भवति। एतादृशाभ्यासेन सर्वे सहभागिनः संस्कृतसम्भाषणे निपुणाः भविष्यन्ति तथा संस्कृतभाषायाः प्रचारप्रसाराय नूतनां दिशं प्रदास्यन्तीति तेन विश्वासः व्यक्तः।
कार्यक्रमाध्यक्षः डॉ. महावीरशास्त्रीमहाभागः स्वस्य अध्यक्षीयोद्बोधने उक्तवान् यत् संस्कृतभाषा भारतीयसंस्कृतेः मूलाधारः अस्ति। अस्याः संरक्षणं संवर्धनं च केवलं विदुषां दायित्वं न, अपितु सम्पूर्णसमाजस्य सामूहिकं कर्तव्यमेव। एतादृश्यः कार्यशालाः नवपीढीं स्वसंस्कृतेः, स्वपरम्परायाः, भारतीयज्ञानविज्ञानस्य च सह पुनः संयोजयितुं समर्थाः भवन्ति। संस्कृतभाषायाः व्यवहारप्रसारेण एव राष्ट्रस्य सांस्कृतिकवैभवं पुनः प्रतिष्ठां प्राप्स्यतीति तेन प्रतिपादितम्।
विशिष्टातिथिः श्रीअभिषेकशर्ममहाभागः स्वोद्बोधने अवदत् यत् संस्कृतभाषा अद्यापि पूर्णतया वैज्ञानिकी, व्यवहारोपयोगिनी, सर्वथा च प्रासङ्गिकी वर्तते। यदि विद्यार्थिनः संस्कृतभाषां स्वदैनन्दिनजीवने व्यवहारतः स्वीकुर्युः, तर्हि संस्कृतभाषायाः प्रचारः स्वयमेव प्रवर्धेत। तेन विद्यार्थिनः प्रेरिताः यत् ते संस्कृताध्ययनं संस्कृतसम्भाषणं च स्वजीवनस्य अविभाज्यमङ्गं कुर्वन्तु।
सम्पूर्णस्य कार्यक्रमस्य संचालनं डॉ. तपीशशास्त्रीमहाभागेन शुद्धया, सरल्या, प्रवाहपूर्णया च संस्कृतभाषया सम्पन्नम्। तस्य विशिष्टसञ्चालनशैलीं सर्वे उपस्थिताः अतिथयः, विद्वांसः, सहभागिनश्च मुक्तकण्ठेन प्रशशंसुः।
आयोजकैः सूचितं यत् अस्यां अष्टदिवसीयायां संस्कृतसम्भाषणकार्यशालायाम् संस्कृतसम्भाषणम्, वाच्यपरिवर्तनम्, लकाराध्ययनम्, छन्दःपरिचयः, संस्कृतवाङ्मयस्य तथा जैनसंस्कृतवाङ्मयस्य इतिहासः, भाषाक्रीडा, शास्त्रव्याख्यानम्, अभिनयः, सन्धिविचारः इत्यादीनां विविधविषयाणां व्यवस्थितं प्रशिक्षणं प्रदास्यते। अस्याः कार्यशालायाः प्रमुखलक्ष्यं प्रतिभागिषु संस्कृतभाषायाः प्रति आत्मविश्वासस्य जागरणं, सम्भाषणकौशलस्य विकासः, व्यवहारजीवने संस्कृतभाषायाः प्रवर्तनं च वर्तते।
उद्घाटनसमारोहे बहुसंख्यकाः संस्कृतप्रेमिणः, विद्यार्थिनः, अध्यापकाः, समाजस्य गणमान्यजनाश्च उपस्थिताः आसन्। सम्पूर्णः समारोहः संस्कृतमये, आध्यात्मिके, प्रेरणादायके च वातावरणे सम्पन्नः। समारोपे सर्वे सहभागिनः आगामी अष्टसु दिवसेषु यथाशक्ति परस्परं संस्कृतभाषयैव सम्भाषणं करिष्यामः इति दृढसङ्कल्पं स्वीकृतवन्तः।












